प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त्। अत॑श्चि॒दिन्द्रा॑दभयन्त दे॒वा विश्वा॑ अ॒पो अ॑जयद्दा॒सप॑त्नीः ॥५॥
paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṁ nāma bibhrat | ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ ||
प॒रः। यत्। त्वम्। प॒र॒मः। आ॒ऽजनि॑ष्ठाः। प॒रा॒ऽवति॑। श्रुत्य॑म्। नाम॑। बिभ्र॑त्। अतः॑। चि॒त्। इन्द्रा॑त्। अ॒भ॒य॒न्त॒। दे॒वाः। विश्वाः॑। अ॒पः। अ॒ज॒य॒त्। दा॒सऽप॑त्नीः ॥५॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे विद्वन् ! यत्त्वं परः परमः श्रुत्यं नाम बिभ्रत्सन्नाजनिष्ठाः स यथा परावति देशे स्थितः सूर्य्यो विश्वा दासपत्नीरपोऽजयद्यथा देवा इन्द्रादभयन्त तथा वर्त्तमानेऽतश्चित्सुखं वर्धय ॥५॥